पृष्ठम्:अलङ्कारमणिहारः.pdf/४९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
492
अलंकारमणिहारे

अपहतपाप्मन्! कुतः कृत्प्रत्ययस्य ग्रहणे गतिकारकपूर्वस्यापि ग्रहणं भवेदिति ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्’ इति परिभाषार्थो दर्शितः । तेन ‘कर्तृकरणे कृता बहुळम्' इति समासविधायके शास्त्रे कृद्ग्रहणे नखैर्भिन्नो नखभिन्न इत्यत्रेव नखैः निर्भिन्नः हरिणा नखनिर्भिन्नः इत्यादौ गतिकारकपूर्वेणापि कृदन्तेन समासो भवतीति वेदितव्यम् । गतिरत्र प्रादिगणपठित उपसर्गापरपर्यायश्शब्दः “उपसर्गाः क्रियायोगे, गतिश्च' इत्यनुशासनात् । कारकाणि च कर्मकरणादीनि सुप्रसिद्धानि । अत्र भगवच्छास्त्रीये व्यवहारे शब्दशात्रीयव्यवहारारोपः ॥

 यथावा--

 शिरसः परतो न्यस्ते पदेसमस्ते विसर्जनीयोऽप्यन्ते । सत्त्वं भजते भगवन्नयोगवाहेषु हन्त गणितो मनुजः ॥ ७६९ ॥

 हे भगवन् ! योगं वहन्तीति योगवाहाः, कर्मण्यन् । तेन भवन्तीत्ययोगवाहाः त्वद्ध्यानविधुरा इत्यर्थः । तेषु गणितोपि अन्ते विसर्जनीयः साधुजनगोष्ठ्या बहिष्कार्योऽपि मनुजः पुमान् , समस्ते इत्यत्र समः ते इति छेदः । ते तव पदे चरणे शिरसः परतः शीर्षादूर्ध्वं शीर्षे इत्यर्थः । वृक्षाग्रे श्येन इत्यस्मिन्नर्थे वृक्षाग्रात्परतश्श्येन इत्यपि प्रयोगदर्शनात् । न्यस्ते निक्षिप्ते सति समः साधुस्सन् ‘सर्वसाधुसमानेषु समं स्यादभिधेयवत्' इति मेदिनी । ‘तुल्यो मित्रारिपक्षयोः' इत्युक्तदिशा सर्वसमस्सन्निति वा । यद्वा- असम इति छेदः । असदृशस्सन्नित्यर्थः । सत्वं भजते ।

महान्प्रभुर्वै पुरुषस्सत्त्वस्यैष प्रवर्तकः ।