इति श्रुत्युक्तरीत्या सत्त्वप्रवर्तकभगवच्चरणारविन्दशिरोनिधानमहिम्ना बलिदानवेन्द्र इव सात्विकतां सतो भावं वा प्रतिपद्यत इत्यर्थः । पक्षे– शिरसः शिरःपदात् परतः परत्र न्यस्ते प्रयुक्ते पदे पदशब्दे समस्ते समासं प्राप्ते सति । अन्यथा वक्ष्यमाणं सत्वं न स्यात् ‘नित्यं समासेऽनुत्तरपदस्थस्य’ इत्यधिकारात् । अयोगवाहाः अनुस्वारविसर्गजिह्वामूलीयोपध्मानीयाः तेषां भगवता पतञ्जलिना तथा संज्ञाया विधानात् । तेषु गणितः । अन्ते शिरश्शब्दन्ते विद्यमानः विसर्जनीयोपि विसर्गोपि सत्वं सकारत्वं भजते 'विसर्जनीयस्य सः’ इति खर्परकत्वलक्षणसत्वापवादतया ‘कुप्वोः कःपौ च' इति प्राप्तस्य विसर्जनीयस्य ‘अधश्शिरसी पदे' इत्यनेन सत्वविधानादिति भावः । अत्रापि--
शिरसा प्रतिगृह्णानो देवदेवस्य पादुकाम् । |
इति भगवच्छास्त्रप्रतिपादिते वस्तुनि शब्दशास्तीयव्यवहार आरोप्यते ॥
यथावा--
कमला वैशम्पायनकथनीयोदारभागवतगीता । भयमुपशमयति भविनां प्रियशान्त्यनुशासनाहितोद्योगा ॥ ७७० ॥
वै इति भिन्नं पदम् । शम्पानां शतह्रदानां अयने मार्गे कथनीया 'आदित्यवर्णे, हिरण्यवर्णाम्' इत्यादिश्रुतिप्रथितवर्णतया विद्युत्तुल्येति वर्णनीयेति यावत् । यद्वा-शम्पा दम्भोळिः