पृष्ठम्:अलङ्कारमणिहारः.pdf/४९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
490
अलंकारमणिहारे

रात्मन आलंकारिकाद्यभिमततत्तत्पदगततत्तदर्थबोधौपयिकलक्षणाख्यवृत्तिविशेषस्य स्फूर्तिसद्भावमात्रमवलम्ब्य समासोक्त्युदाहरणतां नीतानि । यदा तु प्रकृताप्रकृतधर्मिद्वयसाधारणविशेषणोपादानमूलिका अप्रकृतधर्मिब्यवहारस्फूर्तिर्हि समासोक्तिमूर्तिः सा च न प्रकृतपद्येषु सुप्रसरा । तत्त्वंपदादिरूपस्याप्रकृतधर्मिणस्तदादिपदैरेवोपादानात् । प्रकृतस्य फणिशिखरिलग्नभगवदादिरूपस्य अप्रकृतस्य तत्त्वंपदादिरूपस्य च धर्मिणोस्साधारणस्य कस्यचिदपि विशेषणस्यानुपादानाच्च । यद्यपि तद्भागत्यागलक्षणाश्रयणादिति तुरीयचरणार्थौ परमपदावधिकागमनपूर्वकफणिशिखर्याश्रयणकर्तृपरमपदाधिवासिभगवत्प्रभा भागत्यागलक्षणाश्रयणहेतुकार्थबोधकतावत्तत्त्वंपदद्वयं चेत्येतौ श्लेषतोऽभेदेनाध्यवसीयेताम्, एवमन्येष्वपि पदेषु तौ तावर्थौ । तथाऽपि नैतौ कस्यचिद्विशेषणतया प्रतीयेते, न तरां च प्रकृताप्रकृतयोरिति तत्त्वं सुसूक्ष्ममोक्ष्यते, तदा पुनश्लेषस्य प्रकृताप्रकृतगोचरस्यैवैतान्युदाहरणानि भविष्यन्तीति ॥

 यद्वा-तद्भागत्यागलक्षणाश्रयणादित्यतः परमपदावधिकागमनपूर्वकफणिशिखर्याश्रयणकर्तृस्वकीयप्रभाकत्वेन प्रकृतभगवद्विशेषणतयाऽर्थात्प्रतीयमाने प्रकृतव्यवहारे अप्रकृतालंकारिकादिगतस्य स्वाभ्युपगतभागत्यागलक्षणाश्रयणहेतुकार्थबोधकतावत्तत्वं पदद्वयकत्वस्याप्रकृतव्यवहारस्य प्रतीतिरित्यभिप्रायेणेह परमं पदमिति पद्यं समासोक्त्युदाहरणतां प्रापितम् । समासोक्तिशरीरे प्रविष्टस्य विशेषणविशेष्यभावस्य शाब्दतानियमाभ्युपगमे तूक्तरीत्या श्लेषस्यैवेदमुदाहरणं भविष्यति । एवं पद्यान्तरेष्वप्यूह्यमिति ॥

 यथावा--

 जगदानन्दकृतस्तव नाम्नो ग्रहणे फणाधरगि-