पृष्ठम्:अलङ्कारमणिहारः.pdf/४९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
489
समासोक्तिसरः (२५)

एतदुक्तं भवत्यत्र हिंसास्तेयादिकं च यत् ।
अनर्थसाधनं कर्म काम्यं त्वर्थस्य साधनम् ॥
चैत्यादिकं तथा कर्म सांख्ययोगादिकं तथा ।
उपायं कर्म सांख्यादि प्रायश्चित्तादिकं तथा ॥
चान्द्रायणादिकं कर्म न कुर्याच्च कदाचन ।
भाव्यनर्थस्य यत्कर्म परिहाराय कीर्तितम् ॥
सन्ध्याऽर्चापञ्चयज्ञादि तन्मुमुक्षुभिरादृतम् ।
नैमित्तिकं चाग्रयणं सीमन्तोन्नयनादिकम् ॥
अग्न्याधानादिकं कार्यमधिकारे सति द्विजैः ।
निषिद्धकाम्योपायाख्यकर्माण्यन्यानि नाचरेत् ॥
प्रायश्चित्तं प्रपन्नस्य विशेषेण यदुच्यते ।
लक्ष्मीतन्त्रे कमलया निमित्ते तत्तदाचरेत् ॥

इत्यादिना । पक्षे– इह प्रपत्तिरिति पदे अविंजहत्स्वार्था अजहत्स्वार्थाख्या मध्यमवृत्तिः अभिधा लक्षणा व्यञ्जनेति क्रमेण परिगणितासु वृत्तिषु मध्यमा लक्षणाख्या वृत्तिः शब्दव्यापृतिः भवति । प्रपत्तिरध्युषितेत्यत्र प्रपत्तिपदं स्ववाच्यायाः प्रपत्तेः फणाधरगिर्यधिकरणकनिवासनिष्पत्तये प्रपत्तिमत्पुरुषे वर्तते । अत्र प्रपत्तेरपि पुरुषसाहित्येन क्रियान्वयादजहल्लक्षणा-

स्वसिद्धये पराक्षेपे त्वजहल्लक्षणोच्यते ॥

इति लक्षणात् । यत्र स्ववाच्यस्यान्वयसिद्ध्यर्थं स्ववाच्यसंबन्धी लक्ष्यते तत्राजहल्लक्षणेति तदर्थः । अत्र भगवच्छास्त्रीयव्यवहारे शास्त्रान्तरीयव्यवहारारोपः पूर्ववदेव ॥

 अत्रेदमवधेयम्-'परमं पदमध्यवसत्’ इत्यादीनि पद्यानि 'सुविदितशक्तिं स्वामिन्' इति पद्यवर्जितानि अप्रस्तुतव्यवहा

 ALANKARA
62