११
द्वादशं भ्रूमध्याधारं तत्र चन्द्रमन्डलं ध्यायेत् शीतलतां याति ॥२१॥
त्रयोदशं नासाधारं तस्याग्रं लक्षयेत् मनः स्थिरं भवति ।। २२॥
चतुर्दशे नासामूलं कवाटाधारं तत्र दृष्टिं धारयेत् षण्मासाज्ज्योतिः-
पुंजं पश्यति ।। २३ ।।
पञ्चदशे ललाटाधारं तत्र ज्योति:पुंजं लक्षयेत् तेजस्वी भवति ॥ २४ ॥
अवशिष्टे ब्रह्मरन्ध्रे आकाशचक्रं तत्र श्रीगुरुचरणाम्बुजयुग्मं
सदावलोकयेत् आकाशवत्पूरर्णो भवति । इतिषोडशाधारः ॥ । २५।।
अथ लक्ष्यत्रयं ।
मूलकन्दाद्दण्डलग्नां ब्रह्मनाडीं श्वेतवर्णां ब्रह्म-
रन्ध्रपर्यतं गतां संस्मरेत् । तन्मध्ये कमलतन्तुनिभां विद्युत्कोटि-
प्रभामूर्ध्वगामिनीं तां मूर्तिं मनसा लक्षयेत् तत्र सर्व-
सिद्धिदा भवति ॥ २६ ॥
अथवा ललाटोर्ध्वे कोल्लाटमण्डपे स्फुरत्काराकारं
लक्षयेत् । अथवा भ्रमरगुहामध्ये आरक्तभ्रमराकारं
लक्षयेदथवा कर्णद्वयं तर्जनीभ्यां निरोधयेत् ततः शिरो-
मध्ये धूं धूं कारं नादं शृणोति अथवा चक्षुर्मध्ये नीलज्योति-
रूपं पुतल्याकारं लक्षयेदित्यन्तर्लक्ष्यम् ॥ २७ ॥
बहिर्लक्ष्यं कथ्यते ।
नासाग्रात् बहिरंगुलचतुष्टये नीलज्योतिः-
संकाशं लक्षयेत् । अथवा नासाग्रात् षडंगुल अधोवायु-
तत्वं धूम्रवर्णं लक्षयेदथवा अष्टांगुले आरक्तं तेजस्तत्वं
लक्षयेत् अथवा दशाङ्गुले कल्लोलवदापस्तत्वं
लक्षयेत् । अथवा नासाग्रात् द्वादशाङ्गुले पीतवर्णं
पार्थिवतत्वं लक्षयेदथवा आकाशमुखं दृष्ट्वावलोकयेत्
५-धारयेत् (ह. ). ६ - ध्यायेत् (ह. ). ७-गोल्ललाट (ह.), ८-द्वयमारक्तं तेजस्तत्वं ( ह. त. ).