१२
किरणानाकुलितं पश्यति एवं निर्मलीकरणम् । अथवोर्ध्व-
दृष्टयान्तरालं लक्षयेत् ज्योतिर्मुखानि पश्यति अथवा यंत्र
तत्राकाशं लक्षयेदाकाशसदृशं चित्तं मुक्तिप्रदं भवति अथवा
दृष्ट्यान्तस्तप्तकांचनसंनिभां भूमिं लक्षयेत् दृष्टिः स्थिरा
भवति । इत्यनेकविधं बहिर्लक्ष्यम् ।। २८ ।।
अथ मध्यमं लक्ष्यं कथ्यते ।
श्वेतवर्णं वा रक्तवर्णं वा कृष्णवर्णं
वा अग्निशिखाकारं वा ज्योतिरूपं वा विद्युदाकारं सूर्यमण्डलाकारं
वा अर्द्धचन्द्राकारं वा यथेष्टस्वपिण्डमात्रं
स्थानवर्जितं मनसा लक्षयेत् इत्यनेकविधं मध्यमं लक्ष्यम् ॥ २९॥
अथ व्योमपञ्चकं लक्षयेत् । आकाशं पराकाशं महाकाशं
तत्वाकाशं सूर्याकाशमिति व्योमपञ्चकम् । बाह्याभ्यन्तरेऽत्यन्तं
निर्मलं निराकारमाकाशं लक्षयेत् । अथवा बाह्याभ्यन्तरेऽ-
त्यन्तान्धकारनिभं पराकाशमवलोकयेत् । बाह्याभ्यन्तरे
कालानलसंकाशं महाकाशमवलोकयेत् । बाह्याभ्यन्तरे
निजतत्वखरूपं तत्वाकाशवलोकयेत् । अथवा बाह्याभ्यन्तरे
सूर्यकोटिसदृशं सूर्याकाशमवलोकयेत् । एवं व्योम-
पश्चकावलोकनेन व्योमसदृशो भवति ॥ ३० ॥
- उक्तञ्च :
नवचक्रं कलाधारं त्रिलक्ष्यं व्योमपञ्चकम् ।
सम्यगेतन्न जानाति स योगी नामधारकः ॥ ३१ ।।
- अथ अष्टाङ्ग योगः ।
यमनियमासनप्राणायामप्रत्याहार-
धारणाध्यानसमाधयोऽष्टाङ्गानि । यम इति उपशमः
-किंरणा आकुलितं तटं ( तं. ). १०-तत्र ( ह.).