सामग्री पर जाएँ

पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३

सर्वेन्द्रियजयः आहार -निद्रा -शीत-वातातपजयश्चैवं
शनैः शनै साधयेत् ।। ३२ ॥
नियम इति मनोवृत्तीनां नियमनमिति एकान्तवासो निःसंगतौ-
दासीन्यं यथा- प्राप्ति - सन्तुष्टिर्वैरस्यं गुरुचरणावरूढत्वमिति
नियमलक्षणम् ।। ३३ ।।
आसनमिति स्वस्वरूपे समासन्नता । स्वस्तिकासनं पद्मासनं
सिद्धासनमेतेषां मध्ये यथेष्टमेकं विधाय सावधानेन
स्थातव्यं इत्यासनलक्षणम् ।। ३४ ।।
प्राणायाम इति प्राणस्य स्थिरता रेचक-पूरक-कुम्भक-
संघट्टकरणानि चत्वारि प्राणायाम -लक्षणम् ।। ३५॥
प्रत्याहारमिति चैतन्यतरङ्गाणां प्रत्याहरणं यथा नानाविकारग्रसनोत्पन्न-
विकारस्यापि निवृत्तिः निर्भातीति प्रत्याहारलक्षणम् ।। ३६ ।।
धारणेति सबाह्याभ्यन्तर एकमेव निजतत्वस्वरूपमेवान्तः-
करणेन साधयेत् यथा यद्यदुत्पद्यते तत्तन्निराकारे धारयेत्
स्वात्मानं निर्वातदीपमिव धारयेदिति धारणालक्षणम् ।। ३७॥
अथ ध्यानमिति ।। अस्ति कश्चन परमाद्वैतस्य भावः स
एव आत्मेति यथा यद्यत्स्फुरति तत्तत्स्वरूपमेवेति भावयेत्
सर्वभूतेषु समदृष्टिश्चेति ध्यानलक्षणम् ॥ ३८॥
अथ समाधिलक्षणम् । सर्वतत्वानां समावस्था निरुद्यमत्वमनायास-
स्थितिमत्वमिति समाधिलक्षणम् ।। इति अष्टाङ्गयोगलक्षणम् ।।

।। इति श्रीगोरक्षनाथकृतौ सिध्दसिध्दान्तपद्धतौ

पिण्डविचारो नाम द्वितीयोपदेशः ॥ २॥


११ -तुरङ्गाणां (ह. का. ).