पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयोपदेशः

अथ पिण्ड -संवित्तिः कथ्यते ।
पिण्डमध्ये चराचरौ यो जानाति
स योगी पिण्ड - संवित्तिर्भवति ॥ १ ॥
कूर्मः पादतले वसति पातालं पादाङ्गुष्ठे तलातलमङ्गुष्ठाग्रे
महातलं पृष्टे रसातलं गुल्फे सुतलं जङ्घायां वितलं जान्वोः
अतलमुर्वोरेवं सप्तपातालं रुद्रदेवताधिपत्ये तिष्ठति
पिण्डमध्ये क्रोधरूपी भावः स एव कालाग्निरुद्रः॥ २ ॥
भूल्लोकं गुह्यस्थाने भुवलोकं लिङ्गस्थाने स्वर्लोकं नाभिस्थाने
एवं लोकत्रये इन्द्रो देवता पिण्डमध्ये सर्वेन्द्रियनियामकः
स एवेन्द्रः ॥ ३ ॥
दण्डाङ्करे महर्लोकः दण्डकुहरे जनो लोकः दण्डनाले तपो
लोकः मूलकमले सत्यलोकः एवं लोकचतुष्टये ब्रह्मदि-
देवता पिण्डमध्ये अनेकमानाभिमानस्वरूपी तिष्ठति ।। ४॥
विष्णुलोकः कुक्षौ तिष्ठति तत्र विष्णुर्देवता पिण्डमध्येऽनेक-
व्यापारकारको भवति । हृदये रुद्रलोकः तत्र रुद्रो देवता
पिण्डमध्ये उग्रस्वरूपी तिष्ठति । वक्षःस्थले ईश्वरलोकः
तत्र ईश्वरो देवता पिण्डमध्ये तृप्तिस्वरूपी तिष्ठति । कण्ठमध्ये
नीलकण्ठो लोकस्तत्र नीलकण्ठो देवता पिण्डमध्ये नित्यं
तिष्ठति । तालुद्वारे शिवलोकस्तत्र शिवो देवता पिण्डमध्येऽ
नुपमस्वरूपी तिष्ठति । लम्बिकामूले भैरवलोकस्तत्र
भैरवो देवता पिण्डमध्ये सर्वोत्तमस्वरूपी तिष्ठति । ललाट-
मध्येऽनादिलोकस्तत्रानादि-देवता पिण्डमध्ये आनन्दपरा-


१ - महातलं पादपृष्ठे ( ह. ते.).