पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५

हन्तास्वरूपी तिष्ठति । शृङ्गारे कुललोकस्तत्र कुलेश्वरो
देवता पिण्डमध्ये आनंदस्वरूपी तिष्टति । शंखमध्ये नलिनीस्थाने
अकुलेश्वरो देवता पिण्डमध्ये निरभिमानावस्था तिष्ठति । ब्रह्मरन्ध्रे
परब्रह्म - लोकस्तत्र परब्रह्म देवता पिण्डमध्ये परिपूर्णदशा
तिष्ठति । ऊर्ध्व​कमले परापर -लोकस्तत्र परमेश्वरो देवता
पिण्डमध्ये परापरभावस्तिष्ठति । त्रिकूटस्थाने शक्तिलोक-
स्तत्र पराशक्तिर्देवता सर्वासां सर्व-कर्तृत्वावस्था तिष्ठति ।
एवं पिण्डमध्ये सप्तपातालसहितैकविंशतिब्रह्माण्ड-
स्थान-विचारः॥५॥
सदाचारतत्वे ब्राह्मणाः वसन्ति शौर्यं क्षत्रिया:व्यवसाये
वैश्याः सेवाभावे शद्राश्चतुषष्टिकलास्वपि चतुःषष्टिवर्णाः ॥६॥
अथसप्त समुद्राः सप्त द्वीपाः कथ्यन्ते ।
मज्जायां जम्बूद्वीपः अस्थिषु शक्तिद्वीपः
शिरासु सूक्ष्मद्वीपः त्वक्षु क्रौञ्चद्वीपः
रोमसु गोमयद्वीपः नखेषु श्वेतद्वीपः मांसे (अस्थिनि) प्लक्ष-
द्वीपः एवं सप्तद्वीपाः ॥ ७॥
मूत्रे क्षार-समुद्रः लालायां क्षीर-समुद्रः कफे दधि-
समुद्रः मेदसि घृत-समुद्रः वसायां मधु-समुद्रः रक्ते
इक्षु-समुद्रः शुक्रेऽमृत-समुद्रः एवं सप्तसमुद्राः ॥८॥
नवखण्डाः नव द्वारेषु वसन्ति । भारतखण्डः काश्मीरखण्डः
करैर्पर​र्खण्डः श्रीखण्डः शंखखण्डः एकपादखण्डः
गान्धारखण्डः कैवर्तकखण्डः महामेरुखण्डः एवं नवखण्डाः ॥ ९॥


( २-नास्ति वाक्यमिदम् ( यो. तं). ३-शाकद्वीपः (ह.), शाल्मलिद्वीपः (का. ), मस्तिष्के शाकद्वीपः (तं ). ४-भाई खण्डा (यो. ). ५-खर्वखण्डः ( ते . ), कर्परखण्डः (ह​.).