पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०

नवममाकाशचक्रं षोडशदलकमलमूर्ध्वमुखं तन्मध्ये
कर्णिकायां त्रिकूटाकारां तदूर्ध्व​शक्तिं तां परमशून्यां ध्यायेत्
तत्रैव पूर्णगिरिपीठं सर्वेच्छासिद्धिर्भवति ॥ ९ ॥
इति नवचक्रस्य विचारः ।

अथ षोडशाधारः कथ्यते ।

तत्र प्रथमं पादाङ्गुष्ठाधारं तत्राग्रतस्तेजोमयं ध्यायेत् दृष्टिः
स्थिरा भवति । । १०॥
द्वितीयं मूलाधारं सूत्रं वामपार्ष्णिना निपीड्य स्थातव्यं तत्राग्नि-
दीपनं भवति ।। ११॥
तृतीयं गुदाधारं विकाससंकोचं निराकुञ्चयेत् अपानवायुः
स्थिरो भवति ॥ १२॥
चतुर्थं मेढ्राधारं लिङ्गसंकोचनेन ब्रह्मग्रंथित्रयं भित्वा भ्रमर -
गुहायां विश्रम्य तत ऊर्ध्व​मुखे बिन्दुस्तम्भनं भवति । एषा
वज्रौली प्रसिद्धा ।। १३॥
पश्चममोठ्याणाधारयो बर्न्ध​नान्मलमूत्रसंकोचनं भवति ॥१४॥
षष्ठे नाभ्याधारे ॐकारमेकचित्तेनोच्चारिते नादल​यो भवति ॥१५॥
सप्तमे हृदयाधारे प्राणं निरोधयेत् कमलविकासो भवति ।। १६ ।।
अष्टमे कण्ठाधारे कण्ठमूलं चिबुकेन निरोधयेत् इडापिंगलयोर्वायुः
स्थिरो भवति । १७॥
नवमे घण्टिकाधारे जिह्वाग्रं धारयेत् अमृतकला स्रवति ॥ १८ ॥
दशमे ताल्वाधारे ताल्वन्तर्गर्भे लंबिकां चालनदोहनाभ्यां
दीर्घीकृत्वा विपरीतेन प्रवेशयेत् काष्ठी भवति ।।१९॥
एकादशमथ जिह्वाधारं तत्र जिह्वाग्रं धारयेत् सर्वरोगनाशो
भवति ॥२०॥


४- नादोदयमुपैति (का. ).