सामग्री पर जाएँ

पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोपदेशः

अथ पिण्डविचारः कथ्यते

पिण्डे नवचक्राणि । आधारे ब्रह्मचक्रं
त्रिधावर्त भगमण्डलाकारं तत्र मूलकन्दः तत्र शक्तिं
पानाकारां ध्यायेत् तत्रैव कामरूपं पीठं सर्वकामप्रदं भवति ।। १॥
द्वितीयं स्वाधिष्ठानचक्रं तन्मध्ये पश्चिमाभिमुखं लिङ्गं प्रवाला-
ङ्कुरसदृशं ध्यायेत् तत्रैवोड्यानपीठं जगदाकर्षणं भवति ॥ २ ॥
तृतीयं नाभिचक्रं पञ्चावर्त सर्पवत्कुण्डलाकारं तन्मध्ये
कुण्डलिनीं शक्तिं बालार्ककोटिसदृशीं ध्यायेत् सा मध्या
शक्तिः सर्वसिद्धिदा भवति ॥३॥
चतुर्थं हृदयाधारमष्टदलकमलमधोमुखं तन्मध्ये कार्णिकायां
लिङ्गाकारां ज्योतिर्ध्यायेत् सैव हंसकला सर्वेन्द्रियवश्या भवति ॥४॥
पञ्चमं कण्ठचक्रं चतुरंगुलं तत्र वामे इडा चन्द्रनाडी दक्षिणे
पिङ्गला सूर्यनाडी तन्मध्ये सुषुम्नां ध्यायेत् सैवानाहतकला
अनाहतसिद्धिर्भवति ॥५॥
षष्ठं तालुचक्रं तत्रामृतधाराप्रवाहः घंटिकालिङ्ग मूलरन्ध्रं
राजदन्तं शंखिनीविवरं दशमद्वारं तत्र शून्यं ध्यायेत् चित्त-
लयो भवति ॥ ६ ॥
सप्तमं भूचक्रं मध्यमाङ्गुष्ठमात्रं ज्ञाननेत्रं दीपशिखाकारं
ध्यायेत् वाचां सिद्धिर्भवति ॥७॥
अष्टमं ब्रह्मरन्ध्रनिर्वाणचक्रं सूचिकाग्रवेध्यं धूमशिखाकारं
ध्यायेत् तत्र जालन्धरपीठं मोक्षप्रदं भवति ॥८॥

{rule}} १ - पावकाकारां (ह. तं.). २-कामफलप्रदं (ह. तं.). ३ - सर्वेन्द्रियाणि वश्यानि (ह.).