पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शुक्राधिक्ये पुरुषः रक्ताधिक्ये कन्या समशुक्ररक्ताभ्यां
नपुंसकः परस्पर-स्त्री - पुरुष-चिन्ता-व्याकुलत्वादन्धः कुब्जः
वामनः पङ्गुरङ्गहीनश्च भवति ।। ७१ ।।
परस्पररतिकाले अङ्गनिपीडनकरणगुणैः शुक्रं द्विस्त्रिवारं
पतति तेन द्वितीयो बालको भवति ॥ ७२ ॥
सार्द्ध​पलत्रयं शुक्रं विंशतिपलं रक्तं द्वादशपलं मेदः
दशपलं मज्जा शतपलं मांसं विशंतिपलं श्लेष्मा
तद्वत् वातं स्यात् षष्ट्य​धिक-शत-त्रयमस्थीनि अस्थिमात्रं
सन्धयः सार्द्धत्रय -कोटिरोमकूपाणि पितृमातृवीर्यं
भवति । वात-पित्त-श्लेष्मधातुत्रयसहितं दशघातुमयं शरीरंमिति
गर्भोलि पिण्डोत्पत्तिः ॥ ७३ ॥
इति गोरक्षनाथ-कृतौ सिद्धसिद्धान्तपद्धतौ पिण्डोत्पत्तिर्नाम
प्रथमोपदेशः ।। १ ।।

३५-गर्भपिण्डोपत्तिः (का.).