पृष्ठम्:सिद्धसिद्धान्तपद्धतिः अन्ये च.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण्डमार्गेण ब्रह्मरन्ध्रपर्यन्तं वहति ) एवं दशद्वारेषु
वहन्ति (अन्या सर्वा नाड्यो रोमकूपेषु वहन्ति )।। ६७ ।।

अथ दशावयवः ।।

हृदये प्राणवायुः उच्छूास -निश्वास-कारको
हकार - सकारात्मकश्च​ । गुदे त्वपानवायुः रेचकः
कुम्भकश्च​। नाभौ समानवायुः दीपकः पावकश्च​। कण्टे
व्यानवायुः शोषणाप्यायनकारकश्च । तालौ उदानवायुः
ग्रसन - वमन- जल्पकारकश्च । नागवायुः सवोङ्गच्यापकः
मोचकश्चालकश्च । कूर्मवायुः चक्षुषोरुन्मेष-कारकश्च। कृकलः
उद्गारकश्च क्षुत्कारकश्च। देवदत्तो मुखे विजृम्भकः । धनञ्जयो नाद ।
घोषक इति दशवायुरवलोकनेन पिण्डोत्पत्तिः नरनारीरूपम्। ६८
अथ गर्भोलिपिंडोत्पत्तिः ।।
नरनारीसंयोगे ऋतुकाले ।।६९॥
रजोबिन्दुसंयोगे सः जीवः
प्रथमदिने कल​लं भवति सप्तरात्रे बुद्धदाकारं भवति
अर्द्धमासे गोलाकारं भवति मासमात्रे कठिनं भवति
मासद्वयेन शिरो भवति तृतीये मासि हस्तपादादिकं भवति
चतुर्थे मासि चक्षुकर्णादि-नासिका-मुखं मेढ्रं भवति
पञ्चमे मासि पृष्ठोदरौ भवतः षष्ठे मासि नखकेशादिकं भवति
सप्तमे मासि सर्वचेतनयुक्तो भवति अष्टमे मासि सर्वलक्षण
संयुक्तो भवति नवमे मासि सत्यज्ञानगर्भसंयुक्तो भवति
दशमे मासि योनिसंस्पर्शादज्ञानी बालको भवति ।। ७० ॥


२४नास्तिवाक्यामिदम्(ह.). २५नास्ति वाक्यमिदम् (ह.). २६-*अस्यैवावस्थाभेदे कुम्भकपूरकश्च (ह. ). २८. पाचकश्च ( ३. ). २९-सवोर्ज( ह. ). ३० -शब्दोऽयं नास्ति (ह. ). ३१ कुम्भकश्चनु (हे.. ३२–कलनं ( यो. ), कलिलं ( का.). ३३-मेद् गुदं (ह. का.). ३४ सत्यज्ञानयुक्तः (ह..