अवन्तीं प्रति यातव्यं यद्युदेष्यति भानुमान् ।
शयेऽस्मिन् वृक्षमूलेऽहमपनेतुं पथिश्रमम् ॥ ३३ ॥
- ( इति निद्राति । )
प्रमोहः—
कुत्रान्या कौमुदी दीना मदनेनार्दिता भृशम् ।
पञ्चेषुरतिमूर्खोऽयमुन्मादयति कन्यकाः ॥ ३४ ॥
(ततः प्रविशति कौमुदी ।)
कौमुदी-- (सखेदम् )
परिश्रान्ताऽस्मि खिन्नाऽस्मि हतेयं दुःखभागिनी ।
प्रत्याशैकपदे भग्रा हा प्राणा न त्यजन्ति माम् ॥ ३५ ॥
सर्वधा सुखी भवतु वसन्तः । न शक्यमितः परं गन्तुम् । इयमेवावस्थाऽनुभूयते । उक्तं हि ।
मातर्मातर्दलति हृदयं ध्वंसते देहबन्धः
शून्यं मन्ये जगदविकलज्वालमन्तर्ज्वलामि ।
सीदन्नन्धे तमसि विधुरो मज्जतीवान्तरात्मा
विष्वङ्मोहः स्थगयति कथं मन्दभाग्या करोमि ।
(इति मोहमापन्ना भूमौ निपत्य निद्राति ।)
प्रमोहः-- (वसन्तं स्पृष्ट्वा प्रसूनं लोचनयोर्निष्पिष्य ) यथापूर्वं कौमुदीदत्तमना एव भूत्वा तामेवोपयम्यायं तरुणो विजयतां शरदां सहस्रम् । सर्वत्र भवतु मङ्गलम् ।
- (इति निष्क्रान्तास्सर्वे ।)
इति वासन्तिकस्वप्ने तृतीयोऽङ्कः ॥