पृष्ठम्:वासन्तिकास्वप्नम्.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुथोऽङ्कः ॥

( ततः प्रविशत्यधरकेण निम्बवती विभवतश्च परिवारः)

निम्बवती-- ( सप्रणयं खरशिरत्कमधरकं प्रति ।) आगच्छ मानद निषीद मनोज्ञतल्पे पुष्पैश्चिते रमय मां त्वयि बद्धभावाम् । सद्यः प्रसाध्य रमणीयमिमं कपोलं चुम्बामि कर्णयुगलं तव दीर्घदीर्घम् ॥ १ ॥

अधरकः— कहिं जअशेणा । क्व जयसेना ।

जयसेना --- किमाज्ञापयति महाभागः ।

अधरकः-- कळलूअशु मह वअणे । कर्हि अत्थि विअआ । कण्डूयस्व मे वदनम् । कुत्रास्ते विजया ।

विजया- इयमस्मि ।

अधरकः-- वळे विअए, शअवं गत्तूण मच्छिआ हत्तूण मध्धिअं आणेहि . । वळे गोमिणि ।

अयि विजये, सजवं गत्वा मक्षिका हत्वा माध्वीकमानय। भो गोमिनि ।

गोमिनी— को निदेशः ।

अधरकः-- वअणम्मि अच्चन्तळोमशे हगे त्ति मण्णे । तह