मिउळे मह शीऴीळे लोम्माणं शंकळणे कऴ्ळूअणं अवेक्खइ । ता ताळिशकम्मणि पुळिवं एव णिउत्ताए जअशेणाए शाहाइअं कळे हि ।
वदनेऽत्यन्तरोमशोऽहमिति मन्ये । तथा मृदुलं मे शरीरं रोम्णां सङ्कलने कण्डूयनमपेक्षते । तत्तादृशकर्मणि पूर्वमेव नियुक्ताया जयसेनायास्साहाय्यं कुरु ।
निम्बवती-- अहो वल्लभ, अपि शुश्रुषसे गानम् ।
अधरकः-- अत्थु णाम गाणे । भक्खिच्चळशं अश्शाएम्ह । आस्तां नाम गानम् । भक्ष्यरसमास्वादयावः ।
निम्बवती प्राणेश, किं वाssज्ञापयामि भक्ष्यमानेतुम् ।
अधरकर -- शुअइदुं इच्छम्हि । कहं एव्वं वाहेशि । स्वप्तुमिच्छामि । कथमेवं व्यथयसि ।
निम्बवती (हस्तं प्रसार्य ।) संप्रति निद्रामनुभवतु भवान् । मत्पाणिमेवोपधाय शेतामत्रभवान् । (अधरकः तथा करोति ।) चेट्यः, गम्यताम् ।
- (निष्क्रान्ताश्चेट्यः ।)
- वल्लभ, प्रतिक्षणं विजृम्भते रागस्त्वयि ।
- (ततः प्रविशति सह प्रमोहेण प्रदोषः)
प्रदोषः-' (कतिचित्पदानि गत्वा ) प्रमोह, स्वागतम् । दृश्यतामवस्था निम्बवत्याः ।
दुःखितोऽहमिमां दृष्ट्वा दत्तभावां खरेऽधुना ।
प्रसूनरसमाहात्म्यमुन्मोहयति भामिनीम् ॥ २ ॥