पृष्ठम्:वासन्तिकास्वप्नम्.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
वासान्तिकस्वप्ने

अधिक्षिप्ता मयोद्याने गर्विता बालकार्थिना ।
सांत्वनानि प्रयुञ्जाना मयि क्रुद्धेऽनुरागिणी ॥ ३ ॥
ततोऽनुतापमापन्ना बालकं प्राहिणोद्रुतम् ।
बालकागममज्ञात्वा मयेयं पीडिता भृशम् ।। ४ ।।
अविलम्ब्य प्रतीकारः कर्तव्योऽद्य महमते ।
( हस्तगतं प्रसूनं निष्पिष्य निम्बवतीपक्ष्माण्यनुलिप्य )
स्वस्था भवतु भद्रेयं मुच्यतां गर्दभेऽनया ।। ५ ॥
रासभश्च यथापूर्वं कर्तव्यो मानुषस्त्वया ।
पश्यैषा पद्मपत्राक्षी लज्जयोत्तिष्ठति ध्रुवम् ।। ६ ।।

निम्बवती-- ( पक्ष्माण्युन्मील्य प्रदोषं पश्यन्ती ) आर्यपुत्र, कोऽयं स्वप्नः । यो मां गर्देभानुरक्तामकरोत् ।

प्रदोषः- देवि, विदूरे शयनं पश्य त प्रियवल्लभम् ।

निम्बवती-- ( सलज्जम् )
कथमेवं प्रमुग्धाऽस्मि गर्दभाक्रान्तमानसा ।
कथं वा विप्रलब्धाऽहं लोचनाभ्यां खरं प्रति ।। ७ ।।

प्रदोषः– (प्रमोहं प्रति ।)
अपनीय रासभशिरः स्थापय शीर्षे नरस्य सजवं त्वम् ।

(निम्बवतीं प्रति)

सर्वे किन्नरगानं हृष्टाः श्रुत्वाऽद्य गच्छन्तु ॥ ८ ॥

निम्बवती- चेट्यस्त्वरितं गीयतामस्माकं प्रभुराज्ञापयति ।