पृष्ठम्:वासन्तिकास्वप्नम्.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । ७१ ( सर्वा गायन्ति) प्रमोहः- अधरक, नरो भव निद्रावसाने । प्रदोष– देवि निम्बवति, यथाप्रमोदं रमणीयारामनिकुञ्जेषु विहृत्यगामिनेि दिवस इन्द्रवर्मणः पाणिग्रहणमहोत्सवसमाजनेत्य सुखं नृत्यावः । ( इति विना अधरकं सर्वे निःक्रान्ताः । ) ( ततः प्रविशति कनकलेखयेन्दुशर्मणा चानुगम्यमानः सपरिवारो राजा इन्द्रवर्मा ) इन्द्रवर्मा - (सावलेपम् ) हत्वा हिंस्रमृगनतीव मृगयाव्यापारखिन्नोऽस्म्यहं गत्वा व्याधमिहानयाहमधुना पश्यामि सर्वं वनम् । । क्रीडाशैलमुताधिरुह्य सहसा श्रुत्वा मृगक्रन्दनं हर्षं प्राप्स्यति मङ्गलेयमधिकं देवी मया सादरम् ॥ ९ ॥ कनकलखे सप्रतेि विहरावः । कनकलेखा-- ( स्वगतम्) अवलेपएनं मुखरयति । भवतु नीच खल्वयम् । ( प्रकाशम् ) महीपते गच्छावः । इन्द्रवर्मा-- (विकटं परिक्रम्य ) प्रिये, रमणीया इमा वनभूमयः । सुखस्पर्शो वाति दक्षिणानिलः । मधुरं कूजन्ति शकुन्ताः । माधवश्रियं पुष्यन्ति रक्तपल्लवावतंसेिंतचूताशोकातरुनिवहाः । (स्खलितगतिर्भूमौ चक्षुर्निक्षिप्य ।) कथमिमे अमरतरुण्यौ । ०