पृष्ठम्:वासन्तिकास्वप्नम्.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७२ वासन्तिकस्वप्ने (ततः प्रविशतः सुप्तौ वसन्तमकरन्दौ सह कौमुदीसौदामिनीभ्याम् ।) इन्दुशर्मा -- (सविमर्शाश्चर्यम् ।) कौमुदीयं महाराज, वसन्तोऽयं महामते ।। मकरन्दश्च निद्राति सैषा सौदामिनी प्रभो ।। १० ।। चित्रमेतद्यदिमे स्वपन्ति विपिनैकदेशे । राजा-- असंशयमेते प्रत्युषस्युत्थाय वयमत्र मृगयायै गमिष्याम इति ज्ञात्वा पूर्वमेव संमोदेन वनश्रियं दिदृक्षव आगता इति तर्कयामि । अन्यथा कथमेतत् संभवति [स्मरणमभिनीय ।] इन्दुशर्मन् , दिवसेऽस्मिन् खल्वनया परिणयं प्रति स्वाभिमतो वाच्यः । तदद्य तां पृच्छामि । कः कोऽत्र भोः । अनुचरः- आज्ञापयतु महाराजः । राज - सत्वरमेतान् प्रबोद्धयागमय तावन्मत्सकाशम् । अनुचरः -- यथाऽज्ञापयति देवः । ( इति प्रणम्य निष्क्रान्तः ) (नेपथ्ये ध्वनेः ) (कौमुदीवसन्तादयः प्रबोधिताः ।) राजा–कथमद्यापि न जहति युष्मान्निद्रा । वसन्तः- (राजानं दृष्ट्वा ससम्भ्रमम् ।) क्षम्यतां दासजनस्यायमपराधः । राजा-- कथं सर्वेऽपि यूयं मात्सर्यमुत्सार्यं स्नेहधर्मेण सम्मोदमनुभवथ । एतदेव युज्यते ।