पृष्ठम्:वासन्तिकास्वप्नम्.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थोऽङ्कः । ४२ वसन्तः - (सभयसंभ्रमम् ) = सम्भ्रान्तोऽहं महाराज न जाने वक्तुमुत्तरम् । कथं वा केन चैवाहमिहानीतः प्रभोऽधुना ॥ । ११ ॥ स्वप्नो वा किमियं माया किमु वा चित्तविभ्रमः । ( किञ्चिद्विचिन्त्य हृदयेनावधार्य ) सत्यं भणामि भो राजन् कौमुदीं रमणीमहम् ॥१२॥ ० है - आश्वास्य मत्प्राणसमां जनकाज्ञातिदुखिताम् । अर्धरात्रे गृहाद्रूढमनयं विपिनं त्विदम् ।। १३ ।। इन्दुशर्मा- ( सरोषम् ।) विरम विरम महीपाल, चित्रवधार्हः खल्वयं कन्यारत्नतस्करः । दण्ड्यतामविलम्बेन । अहो। मकरन्द, त्वद्वल्लभां मे प्रियकुमारीं कृत्वा यत्र कुत्रापि स्वयं गान्धर्वेणोपयन्तुं किलारब्धमनेन वसन्तहतकेन । तद्दिष्टया वर्धसे । मकरन्दः- अहो ! इन्दुशर्मन् , अयमञ्जलिस्त्वां प्रत्यथव। कौमुदीम् । पूर्वेद्युः सौदामिन्या विज्ञप्तोऽहं कौमुदीवसन्तपलायनं. कौमुदीविभ्रमाक्षिप्तहृदय एव मामेव प्रणयेनानुगतां त्रिलोकसुन्दरीं सौदामिनीं न्यक्कत्य कान्तारमिममागतोऽभवम् । इदं तु न ज्ञायते । केन व कारणेनं पुनरपि सौदामिनीमभजन्मदनुराग । सम्प्रति तु । सौदामिनीप्रणयचरितमानसोऽहं सौदामिनी हि वनिताकुलरत्न भूषा । सैवाध में शरणमेवमनङ्गतापः सौदामिनीस्फुरणचञ्चल एव रागः ।। १४ ।। V. 10