पृष्ठम्:वासन्तिकास्वप्नम्.djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७४ वासन्तिकस्वप्ने ९ ३ वसन्त एव कौमुद्यां प्रणयी साऽपि तं प्रति ।। मनसाऽपि स्मरेयं त्वत्कन्यकां न कदाचन ।। १५ ॥ राजा। - (सविस्मयम् ।) अहो ! सम्यग्भणितम् । रे इन्दुशर्मन् , प्रशस्ता नातिभाति ते मतिः । तद्वरीयान् वरस्ते वसन्त एव । मकरन्दश्च सौदामिनीदत्तराग एव वतते । तदिदमेव साधु । अस्मिन्नेव दिवसेऽनयोः कौमुधीवसन्तयोः सौदामिनीमकरन्दयोश्चास्मदुत्सवसमाज एव पाणिग्रहणमङ्गलोत्सवो निर्वर्तनीयः । प्रिये कनकलेखे, परिणयवेलाप्यासन्न्ना । तत् सर्वेऽपि क्षिप्रं प्रासादमेव गच्छन्तु । (इति निष्क्रान्तः सपरिवारो राजा ।) मकरन्दः- (सवितर्कम् ) सत्यमेवायं स्वप्नोऽथवा कोऽपि विम्प्रलभ एवेति मन्ये । कौमुदी -– सर्वमेतद्वृतमसम्बद्धम् । सौदामिनी सर्वधा स्वप्नएवैषः । विहाय कौमुदीं रम्यां प्रसादमकरोन्मयि । वल्लभो मकरन्दोऽयं कथं वैतस्य सम्भवः ॥ १६ ॥ मकरन्दः-– (कौमुदीं प्रति ।) कथ वा मन्यसे सुभ्रु स्वप्नोऽयमिति चिन्तये । किं वा स्मरसि राज्ञोऽत्र निदेशं नगरं प्रति ।। १७ ।। कौमुदी-- अथ किम् । न केवलं राजा । तमनु मे जनकश्च तत्राभूत् । सौदामिनी-- कनकलेखIऽपि । वसन्तः-- प्रासादमगच्छतेति किल राजनिदेशः ।