पृष्ठम्:वासन्तिकास्वप्नम्.djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थोडङ्क: । ७५ मकरन्दः-- तथा चेत् सर्वेऽपि वयं जागृमः । तत्साम्प्रतं राजा देशानुरोधेन प्रसादमङ्गलमण्डपमेव सत्वरं भजामः । (इति निष्क्रान्तः ) अधरकः-- (प्रबुध्य ।) कहं शुहिआ धण्णआई शळ्ळोहम्मि ट्ठावूण अह्यइन्दणेप्पच्छं पि धळिअ भाणुमहं एक्कपदम्मि मो- इअ णिउञ्जं णं पविट्ठेण मए शुविज्जइ । (सत्वरमुत्थाय) पिए भाणुमइ, (इत्यादि व्याहरन्निकुञ्जाद्वहिरागत्य धन्यकादीनपश्यत् ।) वळे घण्णआ महामए, अज्ज ळाअशा, अळे वशुावळिदा , शहे धणआ, (इति सर्वतोऽन्विष्य ) कहं गदा इमे वळाआ । (विचिन्त्य ) अपुळिवे एशे शिविणए । शव्वाह वि अश्शु दचळे इळ एशे । त अवन्तिं वेअ गदुअ घण्णआंह वृत्तं णिहिऴं पि अख्खाऊण अहिणेदव्वे पअळणे पत्थावणलुब्वेण पआशेमि । णामेण अहळआशियिणए त्ति ते होदु शा । (इति निष्क्रामति ) कथं सुहृद् धान्यकादीन्सरोरोधसि स्थापयित्वाऽश्मकेन्द्र नैपथ्यामपि धृत्वा भानुमतीमेकनदे मुक्त्वा निकुञ्जमेतं प्रविष्टेन मया सुप्यते । प्रिये भानुमति, भो भो धान्यक महामते, हे राजस , रे वसुपालित, सखें धनक , कथं गता इमे वराकाः । अपूर्वोsयं स्वप्नः । सर्वस्याप्यश्रुतचरः किलैषः। तदवन्तीमेव गत्वा धान्यकाय. वृत्तं निखिलमप्याख्यायाभिनेतव्ये प्रकरणे प्रस्तावनारूपेण प्रकाशयामि । नम्ना अधरकस्वप्न इति च भवतु सा ।