पृष्ठम्:वासन्तिकास्वप्नम्.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७६ वसन्तिकस्वप्ने (ततः प्रविशन्ति धान्यकः वसुपलितः राजसः साधकश्च ।) धान्यकः-- कहं पेशिदे दूए अहळअणएअणम् । अवि णाम घेऴं पडिणिउट्टे अहळए । कथं प्रेषितो दूतोऽधरकनिकेतनम् । अपि नाम गृहं प्रतिनिवृत्तोऽधरकः । साधकः-- (सविषादम् ) ण किं पि मुणिज्जइ । शच्चे वेअ ळाशहीकडे शे । न किमपि ज्ञायते । सत्यमेव राक्सभीकृतोऽयम् । वसुपालितः-- जइ ण आआमिज्ज अहळए अम्हाण लूव्व- आIहेणए अशक्किए वेअ । अवणिवाह वि अशन्दुठ्ठी । यदि नागच्छेदधरकोऽस्माकं रूपकाभिनयऽशक्य एव । अवनेषस्याप्यसन्तुष्टिः। धान्यकः- णं विण अझइन्दवेशे ण काह वि जुज्जइ । एनं विनाऽश्मकेन्द्रवेषो न कस्यापि युज्यते । वसुपालितः-- पच्चुप्पण्णमर्ह इल शे । प्रत्युत्पन्नमति: किल स: । धान्यकः— कळअण्ठाह विअ तो वाहाळे । कलकण्ठस्येव खलु तव्द्याहार: । (प्रविश्य ससम्भ्रमम् ) धनकः- अळे भाआळे देअजत्तं णिव्वट्टिअ पच्छागच्छइ ळाआ । पाणिग्गअणमङ्गळप्पड़िशळबद्धहत्था तळ्ुणा तळुणओ अ ।।