पृष्ठम्:वासन्तिकास्वप्नम्.djvu/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थोऽङ्कः । ४७ ( नेपथ्ये मङ्गलध्वनिः । ) शू ! णाडअप्पओअवट्टा वि णळवळशण्णिहिम्मि अज्ज ण पत्थोदव्वा । भ्रातरः, देवयात्रा निर्र्वतर्त्य प्रत्यागच्छति राजा । पाणिग्रहणमङ्गलप्रतिसरबद्धहस्तौ तरुणौ तरुण्यौ च । हन्त ! नाटकप्रयोगवार्ताऽपि नरपतिसन्निधावद्य न प्रस्तोतव्या । वसुपालितः- ( सखेदम् ।) शहे अहळआ ळामणिच्चअणिहे, हदा अभ्भे तुह अशण्णिहाणेण । सखेऽधरक, रामणीयकनिधे, हता वयं त्वदसन्निधानेन । ( प्रविश्य पटाक्षेपेण । ) अधरकः- ( सहर्षसम्भ्रमम् ) वळे शुदिआ, कहं एत्थ ट्टिज्जइ । कुद एशे आळश्शे । सुहृदः कथमत्र स्थीयते । कुत इदमालस्यम् । धान्यकः--( सम्मोदातिशयं नाटयन् । ) अहळआ, अज्ज्ञ वेज किदत्था म्ह । एशे वेअ अम्हण भग्गपळिणामे । अधरक, अद्यैव कृतार्थाः स्मः । अयमेवास्माकं भाग्यपरिणामः | अधरकः-- शुहिआ, अच्चभ्भुअं मे वुत्तं बाहळाम्हि वो । सुहृदोऽत्यद्भुतं वृत्तं मे । व्याहरामि वः । धान्यकादयः-- अच्चळि्अश्शवणकुउक्किळ्ऴा अभ्भे । आश्चर्यश्रवणकुतुकिनो -वयम् ।