पृष्ठम्:वासन्तिकास्वप्नम्.djvu/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७८ वसन्तिकस्वप्ने [ नेपथ्ये मङ्गलगीतवाद्यानि श्रूयन्ते ।] अधरकः-- शंव्वइ ण किं पि कहेज्ज । अट्ठाणमण्डवं आअदे । ळाआ शब्वे वि अभ्भे पअळणाणुशाळेण जहूइदणेप्पच्छशामग्गिळीओ शण्णाहिअ उव्वाहमण्डवं उवगदुअ पडिख्खिअ ओशऴं अपुळिवे एशे णाडअप्पओए त्ति जह शामाइआ वइश्शन्दि तह अप्पमत्तेहिं अभ्भेहेिं भव्वे । ता द्रुददळे आशिळम्ह । सम्प्रति न किञ्चिदपि कथयेयम् । आस्थानमण्डपमागतो राजा । सर्वेऽपि वयं प्रकरणानुसारेण यथोचितनेपथ्यसामग्रीस्सन्नाह्योद्वाहमण्टपमुपगत्य प्रतीक्ष्यावसरं अपूर्वों ऽयन्नाटकप्रयोग इति यथा सामाजिका वक्ष्यन्ति तथा अप्रमत्तैरस्मभिर्भाव्यम् । तत् द्रुततरमपसरामः । [ इति निष्क्रान्ताः सर्वे] इति वासन्तिकस्वप्ने चतुर्थोऽङ्कः । >