पृष्ठम्:वासन्तिकास्वप्नम्.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमोऽङ्कः ॥ ( ततः प्रविशतः प्रास।दपर्यङ्कतलस्थौ राजा कनकलेखा च । सभामण्टपासीनः प्रमोदः नागरिकमुख्याः परिवारश्च । ) कनकलेखा-- आर्यपुत्र, विचित्रमेतद्वधूवराणामनुरागाविष्टचेतसां कथितम् । राजा- अद्भुतं भणितं तेषामपि नैव ऋतं भवेत् । न प्रत्येमि कदाऽप्येताः कल्पनागुम्भिताः कथाः ।।१।। कामुकानां तथान्मत जनानां मतिवृतयः । अन्तराहेतुसामग्रीं कल्पयन्ति नवं नवम् ।। २ ।। कामुकः कविरुन्मत्तः कल्पनामयमूर्तयः । पिशाचलोकाः सर्वेऽपि स्फुरन्त्युन्मत्तचक्षुषोः ।। ३ । । रागोन्मत्तमना विवेकविधुरः पञ्चेषुणा वञ्चितः कामी पश्याति कुत्सितां स्त्रियमहो ! कामस्य हि प्रेयसीम्। आवेशात्कवनोद्भवादृृगमला विज्ञानरूपा कवेः यात्यायाति नभोऽवनेश्च नभसो भूमिं भ्रमन्ती सुखात् । कविमतिरतिचतुरा सा कालेनैतावताऽपि यत्नैव । सृष्ट्वा किमपि च ततद्वासभुवं नाम चास्य सन्धत्ते । सन्ति चमत्कृतयस्ताः कविधिषणायाश्च कल्प्यते धुरि यैः । । हर्षभयादौ तत्तत्कारणकार्याङ्गकर्तृसामग्री ॥ ६ ॥