पृष्ठम्:वासन्तिकास्वप्नम्.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८ ७ वसन्तकस्वप्ने कनकलेखा -- राजन् , सर्वेषामेकवाक्यतो निशlवृत्तमकर्ण्य तसर्वमत्यद्भुतमपि सत्यमेवेति प्रतीयते । राज -- संप्रति पश्येत एवाभिवर्तन्ते ते वधूवराः । [ ततः प्रविशति वसन्तः मकरन्दः कौमुदी सौदामिनी च ] राजा-- ( सस्मितम् । ) मङ्गलपरम्परया नित्यसम्मोदोदर्कं वर्ततां राजमन्दिरम् । राजा- अस्मिन् महोत्सवे हर्षानुरोधेन।त्मानं परिजनञ्च विनोदयितुं किमपि रूपकं दिदृक्षुरस्मि । कुत्रास्ते प्रमादः । कुत श्चास्मत्सभासूत्रधारः । प्रमोदः–[उदञ्जलिः ]देव महाराज वीरग्रेसरमणे, सज्ज एष दासः। राजा- क्षपामेनां क्षपयितुं किमप्यस्ति वा विनोदनम् । नृत्तं रूपकमथवा गीतम् । यथा तथा वा मोदेन कालयापनं कर्तुमीहे । प्रमोदः-- अत्र प्रतीक्षन्तेऽवसरं बहव राजानं विनोदयितुम् । अनेकानि च विनोदनानि । यदि रोचते देवयाऽखलमपि व्यक्तीभविष्यत्यनेन पत्रकेण । [ इति लेखं ददाति ] राजा -- [ गृहीत्वा वाचयन् ] प्रथमतो ‘राज्ञः सन्निधौ वीणापाणिः सौविदलः कश्चिद्भीमेन जरासन्धस्य निधनं गातुभिच्छति ।’ सांप्रतं न रोचते मे गानाकर्णनम् । उक्तपूर्वैव कथाप्येषा प्रसङ्गतः कनकलेखायै । [ पुनरपि वाचयन्] ततः “ रौहिणेयस्य सूतवधचरितं नाटकरूपेण प्रयोक्ष्यते ।' [ स्मरणमभिनीय ] एतदपि काश्मीरविजयानन्तरं भागीरथीरोधसि दृष्टचरमेव ।