पृष्ठम्:वासन्तिकास्वप्नम्.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थोsङकः । ८१ (पुनरपि वाचयन् । अनन्तरं ‘सर्वेऽपि कविशिखामणयोदारिध्रमागताः स्मर्तव्यां गतिमीयुः । गैर्वाण्यपि क्षीणदशामापन्ना इत्यादि सरस्वतीरोदनं नम नाटकमभिनेतव्यम् । ' आह्लादप्रतिबन्धीदं न युज्यते मङ्गलमहोत्सवसमाजस्य । (पुनरपि वाचयन् ।) अथ ‘दुःखाकरमप्याह्लादकारि दीर्घमप्यनायतं भानुमत्यश्मकेन्द्रयोः प्रणयमाविष्कुर्वत् प्रकरणमपूर्वं प्रयोक्तुमवनिपस्य पुरत इमे सज्जाः । कथं वाऽस्मिन् प्रकरणे सङ्करः शोंकहर्षयोः । परस्परविरुद्धं तत् कथं वा सरसं भवेत् ॥ ७ ॥ प्रमोद-- महाराज, मया दृष्टचरमेतत् प्रकरणम् । तस्मिन् अस्मकेन्द्र इति कश्चिदवनिपो भानुमतीमनुरक्तोऽवसाने प्रणयाधिक्यादात्मनं व्यापादितवान् । सत्यमेव तदा शोकमसहमानेनाश्रुपूर्णवदनेन मया स्थितम् । तथाऽपि तादृश।नन्दबाष्पपूरो न कस्मिन्नपि प्रकरणान्तरे जायते । राज- क इमे नर्तकाः । प्रमोदः- अस्मन्नगरस्थाः स्थूलबुद्धयस्तन्तुवायप्रभृतयः। राजानमाहृादयितुं प्रथमारम्भोऽयमेतेषाम् ।

राजT अवश्यं द्रक्ष्यामः प्रकरणमेतत् । प्रमोदः-- महाराज, न कदाऽपि देवदर्शनयोग्यमेतत् । सभासदो नन्दयितुमेषां मन्दमतीनामुद्योगाभिनिवेशमन्तरा न किमपि विद्यतेऽस्मिन् नाटके । राज -- प्रणयारब्धं न किञ्चिदपि परित्याज्यम् । तत् सर्वधा V. 11