पृष्ठम्:वासन्तिकास्वप्नम्.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८२ वे सन्तकस्य । दृक्ष्याम्येव । प्रवेशय तान् । भामिन्यः, स्थीयतां स्वे स्वे आसने । प्रमोदः- इदं क्रियते । (इति निष्क्रान्तः) कनकलेखा-- नोत्सहे द्रष्टुमेतत् करुणं प्रकरणम् । राजा- कान्ते कनकलेखे, सर्वत्रापि प्रकरणं न शोकभूयिष्ठम् । कनकलेखा-- आनन्दनं किञ्चिदप्यस्मिन्निनिति श्रुतमार्यपुत्रैणैव । राजा दीनानुकम्पनं नाम व्रतं राज्ञो वरं प्रिये । प्रभुधर्मश्च भूत्यानां प्रसादश्शाश्वतो मतः ।। ८ ।। । अपरञ्च । सरसं विरसं व भवतु प्रकरणम्। निपुणा वा न वेमे नटाः । प्रथमप्रवेश एवयमेत्षामस्दाराधनोद्यतानाम् । तत् सर्वधा न परित्याज्या इमे भृत्याः । अपि च श्रृङ्गारैकरसमित्येवोक्तमेतत् । ( प्रविश्य ) प्रमोदः-(अञ्जलिं बध्वा ॥) अमी सज्जा निदेशं प्रतीक्षन्ते नटाः । कृतानि च नैपथ्यविधानानि । राजा-- (नेपथ्याभिमुखमवलोक्य ) प्रस्तूयतां भोः । (प्रविश्य सूत्रधारः ।) सूत्रधारः सभासदाराधनमानसा वयं नवप्रयोगा ’ न च तीक्ष्णबुद्धयः ।