पृष्ठम्:वासन्तिकास्वप्नम्.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुथाऽङ्कः | ८३ तथाऽपि हर्षेण नृपस्य सन्निधौ प्रमादाकाङ्क्षध समागता वयम् ॥ । ९ ।। (नाद्यन्ते प्रविशति भानुमत्यश्मकेन्द्रो भित्तिश्चन्द्रिक। केसरी च । ) सूत्रधारः -- आर्यमिश्रा : किं पात्रदर्शनेन विस्मिता यूयम् । अस्तु तावद्विस्मयो ! यावद्वस्तुस्थितेरुपरि प्रकाशनम् । अयमेवाश्मकेन्द्रः । इयमेव रमणीया भानुमती । यस्या रन्ध्रेण नायकौ जल्पतस्सैवेयं भितिः कण्टकावृततनुर्दीपाङ्कितपाणिस्सारमेयानुगम्यमानः पुरुष ज्योत्स्नेत्यवधार्यताम् । यतो भानुमत्यश्मकन्द्रौ चन्द्रिकायामेवन्योन्यं दृष्ट्वा विपिनान्तर्गतदेवदारुमेव सङ्केतीकृत्य गतौ । सङ्केतानुसारेण भानुमती पादपमेत्य कान्तमपश्यन्त्यविज्ञायवनौ स्खलितमुत्तरीयमप्यन्वियेष वल्लभम् । तदा द्विरदरस्य कस्यचिद्रक्तं पीत्वा धावन् पथि तत्सं-व्यानमालोच्य तदसृग्रञ्जितमकरोदयं केसरी । यदा चाश्मकेन्द्रः संकेतमहीरुहमुपेत्य प्रेयसीमपश्यन् पञ्चास्यपदविन्यासान् रक्त रञ्जितं प्राणप्रियाया दुकूलश्च साक्षात्कुर्वन् सर्वधा कबलितेयमनाथा मामेव प्रलपन्ती कालेन सिंहरूपिणेति विलपन् प्रेमविदीर्णहृदयः सद्य एवासिनाऽऽत्मानं निहत्य पञ्चतामयासीत् । तत्सर्वमपि रूपकेडस्मिन् व्यक्तीभविष्यति । L इति भित्तिवर्जमन्ये निष्क्रान्ताः । [सर्वे सामाजिकाः स्मयन्ते ।) (ततः प्रविशत्यश्मकेन्द्रः ।) राजा-- भितिसविधमुपसर्पत्ययं तरुणः । अश्मकेन्द्र:-