पृष्ठम्:वासन्तिकास्वप्नम्.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८४ वासन्तिकस्वप्ने तमः समीकृता भान्ति निम्नेोन्नतभुवोऽप्यमी । चक्षुरन्धीकृतं सद्यः सर्वतो भीषणा निशा ॥ १० ॥ अहो रमणीयभित्ते, भानुमतीपितुर्निकेतनस्य मामकीनस्य च मद्यस्थाऽसि । अपि जानीषे कुत्रास्ते मिलासिनीति । बिभेमि च तरुण्या विप्रलब्ध इति । रे कुड्य, दर्शय त रन्ध्रम् । [ भितिर्हस्तं प्रसारयति ।] नमस्ते कुड्य, ( विवरे चक्षुः पातयन्।) न दृश्यते भानुमती । ह। हन्त हन्त ! वञ्चितोऽस्मि । तथा हि । किं पित्रा ननु शिक्षित किमथवा साङ्केतिकं विस्मृतं किं सुप्त। किमु मूर्च्छिता किमु गता किन्नागता लज्जया । मद्दौर्भाग्यवशाद्विभिन्नहृदया किं वाऽथवा रोषिता निद्रा नैति निशा न याति तरूणी नायाति का यातना । ( रोषावेगं नाटयन् । ) रे रे कुड्यहतक, शपामि त्वां यत् त्वयैवाहं विप्रलब्धः । राजा-- ( सहासम् । ) सजीवेयं भित्तिः । कथं प्रतिशापं न ददाति । अश्मकेन्द्रः-- महाराज, नाटकं खल्विदम् । तत्त्वतो न शप्त मिदं कुड्यम् । भानुमत्या मे विप्रलम्भश्च न सत्यः । साप्यद्यैवागमिष्यति । रन्ध्रेणैवानेन द्रक्ष्यामि वसुपालितमथवा भानुमतीम् । सर्वे -- (उच्चैर्हसन्ति ।) ( ततः प्रविशति भानुमती ।)