पृष्ठम्:वासन्तिकास्वप्नम्.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थोऽङ्कः । ८५ भानुमती राकारम्यशशाङ्कसन्निभमुखं सञ्चिन्त्य दूये मुहू रे रे कुड्य, कुतोऽस्ति मे प्रियसखो नाम्नाऽश्मकेन्द्रो ह्ययम् । अश्मकेन्द्रः- ( आकर्ण्य ) नादः कर्णमुपैति भित्तिविवरात्तकिं प्रियाभाषितं [ इति रन्ध्रमुपसृत्य ] कान्ते भानुमति प्रिये, तव रातिर्नास्तीति शङ्केऽधुना । भानुमती-= मत्प्रणयैकानिधे, कथमेवमभिधीयते । अश्मकेन्द्रः- दहि मे चुम्बनं विवरमार्गेण । भानुमती-- भित्तिमेव चुम्बामि न तेऽधरमणिम् । अश्मकेन्द्रः-- यदि ते सत्यमेव मयि प्रणयस्तर्ह्यारामे देवदांरुपादपस्य मूले त्वमेव प्रतीक्षमाणेन मया सङ्गच्छस्व । भानुमती-- प्रणनुत्सृज्याप्यविलम्बं सङ्केतमहीरुहस्याधस्ताद्दयितं प्रतिपालयामि । (इत्युभौ निष्क्रान्तौ ) भित्तिः-- कृतं कर्तव्यं मया कुड्यरूपिणा । सम्प्रत्यपसरामि । (इति निष्क्रान्ता ) राजा- (सस्मितम् ) प्रातिवेश्यनिकेतनमध्ययवनिकायमाना भितिरनश्यत् । मकरन्दः— तिष्ठत च सजीवेन परवार्ताश्रवणकुतूहलेन कुड्येन किं वा प्रयोजनम् ।