पृष्ठम्:वासन्तिकास्वप्नम्.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८६ वासन्तिकस्वप्ने कनकलेखा-- चित्रमेतत्संविधानम् । राजा- उत्कर्षापकर्षौ भावाश्रयावेव । कनकलेखा- – क्व भावानुभावौ । क्व चेमे नटाः । भावस्वायं- पुत्रस्येव । राजा– सत्य मन एव कारणम् । यदि मन्यामह निपुणानेत।न् तदा समर्था एव ते । अस्तु नामेदम् । दृश्यताम् । उदारमृगौ द्वौ प्रविशतौ नरकेसरिणौ। (ततः प्रविशति केसरी, चन्द्रिका च ।) केसरी-“ अहं भामिन्यो मूषकदर्शनेऽप्यतिकातरः, मा भैष्ट सिंहनेपथ्यधारिणं मां दृष्ट्वा । गर्जति मयि न पलायध्वम् । तत्त्वतो युष्माकमहं दासो धनकः । न मामसूत सिंही । राजा- [सस्मितम् । साधु साधु । आत्मज्ञानवानयं हरिः । मकरन्दः-- महीपते, दृष्टपूर्वेषु वरिष्ठोऽयं मृगेन्द्रः । वसन्तः- ननु प्रतापे सृगालोऽयम् । राजा-- सत्यम् । मेधया ताम्रचूडोऽयम् । भवतु ज्योत्स्नां । श्रुणुमः । ज्योत्स्ना- आदर्शमयमिदं दीपभाजनं सविषाणेन्दुबिम्बमिति जानन्तु । मकरन्दः-- शिरसा खल्वनेन धर्तव्यानि विषाणानि । राजा- मण्डले किलान्तर्हितानि तानि । योत्ला – सविषणशशाङ्कमण्डलायमानमेतन्मुकुरदीपभाजनम् ।