पृष्ठम्:वासन्तिकास्वप्नम्.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रधुन।थविलासे ८४ अहं तु मण्डलमध्यस्थनराकारकलङ्कायमानो वर्ते । राज-- हन्त, असम्बद्धमेतत् । आदर्शपेटकमध्ये किलानेन विबुधेन स्थातव्यम् । अन्यथा कथमेष तुहिनकिरणलाञ्छनं भवेत् । ज्योत्स्ना। — [स्वगतम् ] निसर्गपट्टी खलु महाराजस्य मतिः । तथैव कुर्याम् । (इति दीपभाजनमुद्धाट्य मुखं प्रवेशयति ) सर्वे-- [सहस्ततालं हसन्ति ।] मकरन्दः– (सोचैर्हासम् ।) अयं दीपशिखार्धदग्धनासिको रुदन् कथं कथञ्चित्प्रवेशितं वदनं बहिराकर्षति । कनकलेखा— खिन्नऽस्मि ज्योत्स्नपात्रदर्शनेन । किं वा नापसरेदयं यवनिकान्तरम् । राजr~ इदमप्यस्माकं विनोदनस्थानमेव । तिष्ठत्वयम् । पश्य प्रविशन्तीं भानुमतीम् । [ प्रविश्य ] भानुमती-- [ परिक्रम्य समन्तादवलोक्य ।] अयमेव स देवदारुः । कथमद्यापि नागतः प्राणवल्लभः । सिंह-- हा ! हा ! ( इति भीषणं गर्जति । ) [ भानुमती भीता धावति) मकरन्दः-- सम्यगगर्जत् केसरी । राजा-- साधु भानुमति, द्रुततरं पलायस्व ।