पृष्ठम्:वासन्तिकास्वप्नम्.djvu/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८८ वासन्तकस्वप्ने भानुमती-- दिष्टया व्यक्तं भान्ति शीतकिरणगभस्तयः । [ इति निष्क्रान्ता ।] सिंहः- ( स्खलितं तस्याः संव्यानं दष्ट्वा निष्क्रान्तः । ) राजा- ( सस्मितम् ।) मूषकोऽभवत्सिहः । मकरन्दः-- ततः प्रविशत्यमकेन्द्रः । ( प्रविश्य ) अश्मकेन्द्रः सर्वेृतो भासमानोऽयमोषधीशो विराजते । नमोऽस्तु भवते चन्द्र, प्रियान्वेषणसाधक ।। १३ ॥ । वनं सर्वमिदं व्यक्तं पाण्डरैः शशिरश्मिभिः । पञ्चेषुरतिधूर्तोऽयमुन्मोहयति मानसम् ॥ १४ ॥ ( इति कतिचित्पदानि गत्वा । भूमौ दत्तदृष्टिः) कथमेतत् वल्लभादुकूलं रक्तमसृणं दृश्यत । कथं पश्चास्य पदान्यपि । हा हतोऽस्मि मन्दभाग्यः । हन्त विषे,सम्प्रति सकामो भव । ( सास्रम् ।) त्यक्त्वा गृहं प्रियसमागमलालसैषा कान्तारमेत्य हरिणा कवलीकृतासीत् । सञ्जीवनौषधिरियं त्रिदिवं गता चेत् किन्नाम दग्धहृदयेन मयेह लब्धम् ॥ १५ ॥ राजा-- अतिकरुणमेतत् प्रकरणम् । कनकलेखा- अवस्थामस्य दृष्ट्वा द्रवति. मे हृदयम् ।