पृष्ठम्:वासन्तिकास्वप्नम्.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमोऽङ्कः । ८९ अश्मकेन्द्रः- ( सधैर्यसम्भ्रमम् । ) तदियमेवाद्य साधीयसी सन्घा । अस्मिन्नेव तरुमूले आत्मनं हन्मि । ( इत्याकृष्य निस्त्रिंशं वक्षसि निक्षिप्य ।) अधुना गतजीवोऽहम् । ज्येत्स्ने, निष्काम त्वं रङ्गप्रदेशात् । ( ज्योत्स्ना–निष्क्रान्ता ) सामाजिकाःअद्यैव सम्यग्गतप्राणेऽहमिति जानीत । ( इति भूतले पतति । ) मकरन्दः— क्षणं जीव । कनकलेखा– कथ भानुमतीं गाढन्धतमसे विहाय ज्योत्स्नां निष्क्रामति । कथ वा विचेतनं वल्लभं साक्षात्करिष्यति विलासिनी । राजा नक्षत्रज्योतिषा । सापीत एवाभिवर्तते । अस्याः प्रणयप्रकाशनेनविराममेष्यति प्रकरणम् । { ततः प्रविशति भानुमती ।) कनकलेखा- किं वा भवेदनायतोऽस्याः प्रलापः । वसन्तः - अश्मकेन्द्रमद्यैव दृष्टवत्येषा । मकरन्द:- किं वा विस्मृतमनया वक्तव्यं वचनम् ? सामाजिकाः- ( स्मयन्ते । ) भानुमती- ( स्मरणमभिनीय ।) दयित, कथं गाढं निद्रासि । ( स्पृशन्ती । ) अनथास्मि मन्दभगिनी । यदि वा मूर्छितः । ( पुनरपि स्पृष्टा । ) कथं गत एव दृश्यते । अहो नाथोतिष्ठ । देहि मे प्रतिवचनम् । कुतस्तवेदमतिनैर्घृण्यम् । कथय त्वदृते क्व गच्छामि । कमालपामि । कं वा शरणं भजामि । (कम्पयित्वा।)