पृष्ठम्:वासन्तिकास्वप्नम्.djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९० वासन्तिकस्वप्ने नियतमेव लोकान्तरं गतः । अपि न जानीषे यन्न शक्ष्यामि भवता विना क्षणमपि प्राणान् धर्तुम् । तदविलम्बेनानुम्रिये । ( इति तस्य हस्तादाच्छिद्यासिमुरसि निक्षिप्य ।) साम्प्रतं प्रियमनुमृतास्मि । ( इति भूमौ शेते ।) राजा- ( सस्मितम् ।) ज्योत्स्नाकेसरिणौ विनेतरे गता गन्तव्यां गतिम् । मकरन्दः- महीपते, भितिश्च जीवति । अधरकः- ( ससम्भ्रममुत्थाय ।) वळे शमइआ, कुळिए वि णठ्ठे वेअ । णेण ओशिदे आशी अम्हाण णाळअप्पओए । सामाजिका: कुड्यमप्यनश्यदेव । अनेनावसितोऽभयदस्माःकं नाटकप्रयोगः । सर्वे-- ( सहासम् ।) मIऽस्तु माऽस्तु । अधरक--- ओशाणविण्णवणा का वि वट्टइ । जइ कुऊहळे शावेह्यि वो। अवसानविज्ञापन काचिद्वर्तते । यदि कौतूहलं श्रावयामि वः । राजा-- आवश्यकी न हि विज्ञापना । यदा गतान्यखिलानि पात्राणि । सम्प्रति सहर्षं नृत्यताम् । [ नेपथ्ये मङ्गलगीतवादित्रध्वनिः ।] [ सर्वेऽप्युत्थाय जयघोषेण पीत्वा मधु सम्मोदेन नृत्यन्ति । निम्बवतीप्रदोषप्रभृतयो विद्याधरा दिवि सहस्ततालं गायन्ति । अम्बरतलात् पुष्पवृष्टिः सङ्जाता ]