पृष्ठम्:वासन्तिकास्वप्नम्.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमोऽकः। मकरन्दः-- ( सश्लाघम् ।) सखे वसन्त, प्रस्तूयतां केनापि महाराजस्य मङ्गल्या । वसन्तः-- नन्वहमेव गायामि । नित्यमङ्गलस्य विभोर्मङ्गलान्तर- मप्यावश्यकम् । तथापीदमस्तु भरतवाक्यम् । धर्माधर्मविचारदत्तह्रदयो जीयादजस्त्रं नृपः शौर्याक्रान्तसमस्तबाहुजशिरःसंसेविताङ्घ्रिद्वयः। भुञ्जन् सागरमेखलां ध्रुवमहो ! मार्ताण्डवत्स्वैः करैः कुर्वन् दृप्तजनस्य मूर्धनि सदा शार्दूलविक्रीडितम् ॥ [ इति निष्क्रान्ताः सर्वे । ] इति वासन्तिकस्वप्ने पञ्चमोऽङ्कः संपूर्णः ॥