मकरन्दः-- (सरोषविकटं परिक्रामन्। ) अयमहमागत्यासून् ते
निष्कासयामि ।
- (निष्क्रान्तः ।)
(पुनः प्रविशति विश्रान्तो वसन्तः ।)
वसन्तः-- (श्रममभिनीय ।) नेतः परमनुधावामि त्वाम् । त्वं वाचैव वीर इति ज्ञातचरमेव । तत्सूदूरं मारीच इव राघवं मां नयसि । क्षणमप्येकत्र न तिष्ठसि । मत्तोऽपि द्रुततरं धावसि । तत्पलायनकर्मणि त्वं वरीयानेव । अहं त्वतीव श्रान्तोऽत्रैव किञ्चिद्विश्रम्य प्रातस्त्वां निहत्य सौदामिनीं परिणेष्ये ।
- (इति निद्राति ।)
(प्रविश्य निदिद्रासुः ।)
मकरन्दः-- आः क्वापि द्रुतो वसन्तः ।
प्रमोहः-- अहो ते वीर्यम् । कातर, कथमत्र नागच्छसि ।
मकरन्दः-- रे वसन्त, भीतस्त्वमिति विदितपूर्वमेव । तत्क्षण मप्यवसरं न ददासि युद्धस्य । अपसर जाल्म , । अधुनाऽहं निद्रामि । ।
प्रहह-- त्वमेव भीतः । अहमत्रैव वर्ते ।
मकरन्दः, कथमेव मां प्रलोभयसि । गम्यताम् । प्रत्युषसि ते बाहुवीर्यं द्रक्ष्यामि ।
( इति भूतले स्वपिति ।)
( ततः प्रविशति सौदामिनी ।)
सौदामिनी-- ( सविषादम् )
त्रियामा बहुयामेयं विशालं विपिनं त्विदम् ।
दोलायमानं हृदयं प्रतिकूलो विधिर्मम ॥ ३२ ॥