प्रमोहः-- अस्तु । ततः किम् ।
प्रदोषः-- यदा वसन्तो गन्तुमक्षमस्तदा निद्रामुत्पाद्य (प्रसूनमेकं ददत् ।) अस्य रसेन सेचय तन्नयने । तदनन्तरं निद्रविरामे स्वस्थो भूत्वा यथापूर्वं कौमुद्यामेव पुनरुक्तरागो भविष्यति स युवान सर्वमिदं स्वप्नमवधार्य न स्मरिष्यति च सौदामिनीम् । अयमेवात्र प्रतीकारः । सम्प्रत्यप्रमत्तो भव । अहमपि निम्बवती। परिसरमेत्य राजबालमनायासेन गृहीस्व तामप्यनेन स्वस्थीकृत्य निवर्ते । तदा सर्वं साधु सम्पद्येत । साधयामि ।
- (इति निष्क्रान्तः )
प्रमोहः महाराज , रजन्यमि यामशेषैव दृश्यते । तत् द्रुतमेव सर्वं निवर्तितव्यम् । एष च तावनुधावामि ।
- (इति यथोक्तं कुरुते ।)
(ततः प्रविशति वसन्तः )
वसन्तः - रे वीराभिमानिन् मकरन्द, वद कुत्र वर्तसे ।
प्रमोहः-शठ, मूर्ख, सज्जोस्म्यत्रैव । तिष्ठ तिष्ठ । कुत्र पलायसे।
वसन्तः- अयमहमागच्छामि ।
प्रमोहः- द्रुतमागच्छ । विदूरे विमर्दोचितः प्रदेशो दृश्यते ।
- (शब्द मनुसरन्निष्क्रान्तो वसन्तः )
(ततः प्रविशति मकरन्दः । )
मकरन्द्रः- वसन्त , कथ जोषमास्यते । कातरः खलु त्वं । नरापशद, किं वा पलायितोऽसि ।
प्रमोहः- जाल्म मकरन्दहतक , त्वं किल युद्धाद्भीतो मां
भीषयसि वाचा । त्वामद्यैव हन्यामित्यवधेहि ।
V. 9