पृष्ठम्:वासन्तिकास्वप्नम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
वासान्तिकस्वप्ने

सौदामिनी-- (सास्रम् ।) न युक्तमत्रावस्थातुम् ।

(इति निष्क्रान्ता ।)

कौमुदी--- (अश्रूणि मुञ्चन्ती ।) हन्त, हन्त कर्तव्यतामूढाऽस्मि । कम्पते मे हृदयम् । का वाऽत्र प्रतिपत्तिः । अनाथाऽस्मि संवृत्ता | विफलाश्च मे मनोरथः । हा हा विधे, कथमेवमतिनिष्करुणमारब्धम् । उक्तञ्च ।

रात्रिर्गमिष्यति भविष्यति सुप्रभातं
भास्वानुदेष्यति हसिष्यति पङ्कजश्च ।
इत्थं विचिन्तयति कोशगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार ।। ३१ ।।

(इति पठन्ती निष्क्रान्ता ।)

प्रदोषः-- शठ, प्रमोह त्वद्विजृम्मितं खल्विदम् । अन्वर्थनामा हि त्वम् । अथव निर्दयोऽसि ।

प्रमोहः-- अवन्तीतरुणस्य पक्ष्मसु निषिञ्च प्रसूनरसमित्येव विद्याधराधिपनिदेशः । न किं वसन्तोऽवन्तीयुव । तदयमेव राजनिर्दिष्ट इति मनसिकृतमिदं नान्यथा ।

प्रदोषः– गतमद्य न शोच्यम् । पश्योभावपि तौ रोषकलुषित- नयनौ परस्परजिगीषया वीरवादान् कुर्वन्तौ परिक्रामतः । त्वमद्य सजवमपसृत्य विकीर्य प्रभूतं तमो भीषणीकृत्य रजनीं वसन्तस्य कर्णे मकरन्दवद्भर्जित्वा मकरन्दसविधे वसन्तीभूय च प्रतिभटः पुरो गच्छतीति प्रत्येकं निश्चयं जनयित्वा यथापुनरन्योन्यं न पश्येतां तथा सुदूरं नीत्वा भ्रामय ।