पृष्ठम्:वासन्तिकास्वप्नम्.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६३
तृतीयोऽङ्कः ।

स्त्वामन्वेषयन्वनमेव प्राद्रवत् । अहमपेि प्रेमाधिक्यात्तमनुध-ावन्ती बहुधऽनुनीयास्त्वम् । स तु मद्दौर्भाग्यान्मां न्यक्कृत्य विपिनान्तरे परित्यज्य पलायितः । एतदेव मे वृत्तम् । सम्प्रत्यपसरमि । कुशलिनी भव । दीनाऽहं ते प्रणयसखी कारुण्येन द्रष्टव्या ।

( इति जिगमिषति ।)

कौमुदी- केन वाऽत्र स्थापिता । सुखं गम्यताम् ।

सौदामनी-- ( स्खलितगतिः ) मनो मां नानुयति ।

कौमुदी -- प्रणयेन किल वसन्ते ।

सौदामिनी-- नहि नहि- मकरन्दे ।

वसन्तः-- अतिकातरे सौदामिनि, मा भैषीः । मत्पुरतः किं । करिष्यति मकरन्दस्तव ।

मकरन्दः-- (सरोषम् ।) मूर्ख वसन्त, किमेवं प्रलपसि । यावदहं । नयामि त्वां वैवस्वतमन्दिरम् ।

वसन्तः--(क्रोधातिशयमभिनीय ।) किमात्थ रे मनुष्यकीट, संप्रति पश्यामि ते पौरुषम् ।

(इति परिक्रमति ।)

मकरन्दः– एहि पाप , समन्तादुत्स्वातिनी भूमिरियम् । विमर्दक्षमप्रदेशमवतरावः ।

(इत्युभौ निष्क्रान्तौ ।)

कौमुदी– (सशोकम्) अहो प्रमादः । आः पापे दुष्कृतकारिणि सौदमिनि, पूर्णास्ते मनोरथाः । पश्य फलमात्मनोव्यापारस्य ।