पृष्ठम्:वासन्तिकास्वप्नम्.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६२
वासान्तिकस्वप्ने

यद्येवं किमिहपरा मम भवेव्द्यापत्तिरन्यादृशी
कौमुद्यस्मि वसन्त एव स भवान् किं वाऽन्यथा भाषसे।
त्वामाश्रित्य गृहं विहाय पितरौ सन्त्यज्य रात्रौ वने
भ्रान्तं निष्करुण, त्वयाद्य निखिलं किं सर्वधा विस्मृतम् ॥

वसन्तः– (कोपातिशयं नाटयन् । ) न दिदृक्षामि ते वदनम् । गम्यतामस्मत् प्रदेशात् । नेतः प्रभृति वसन्तं स्मर । गतस्ता वदावयो: प्रणयः । विह।य विवेचनामेतावत् स्थितं मया । सत्यमेव सौदामिनीं दृष्ट्रा रतिरमणबाणगोचरतामवातरम् । सैव मे बहिश्चराः प्राणाः ।

कौमुदी-- (विचिन्त्य ।) अयि पापाशये, मित्रच्छद्मना शत्रुभूते सौदामिनि हतके, असंशयमेवैतदखिलं त्वचेष्टितमेव । त्वयैव तावद्भिन्नहृदयो मे वल्लभः । रोषितश्च मयि । किं तेऽनयाऽपराद्धम् । साम्प्रतं सकामा भव । प्रतिकुले दैवे किं वा न सम्भवति ।

(इति रोदिति । )

सौदामिनी -- दुर्विनीते, दूरमतिक्रामत्यपि प्रसन्ने कथं न विर मस्यात्मविनोदनात् ।

कौमुदी - ( क्रोधमभिनीय ) कर्तव्यमखिलं कृत्वा यत्किचिदद्य प्रलपसि । अयि, वदामि त्वयैव विभिन्नहृदयो वसन्त इति । सौदामिनी– वितथमवितथं वा भवतु ते वचनम् । नाहं किञ्चिदपि जाने । एतदेव मयाऽपराद्धं त्वयि । अस्मत्पश्चिमदर्शनानन्तरं मकरन्दनिकटमेत्य त्वं हि वसन्तेनार्धरात्रे गूढं पलायिष्यस इति मया रहस्यनिर्भेदः कृतः । तदाकर्ण्य मकरन्द-