सत्यं त्वय्यनुरक्तोऽस्मि मत्प्राणैरपि ते शपे ।
त्यक्त्वा याननृतीकुर्यामन्यथावादिनं जनम् ॥ २९ ॥
मकरन्दः-- अकत्रिमतरः खलु मे प्रणय : ।
वसन्तः-- तथा चेन्मूर्ख, द्रक्ष्यामि तेऽनुरागम् ।
मकरन्दः-- (सरोषम् ) जाल्म, त्वरितमागच्छ ।
कौमुदी- (सम्भ्रान्ता ) वसन्त, किमेतत् ।
वसन्तः-- (किमात्थ रे अनात्मज्ञ ।
मकरन्दः-- गच्छ गच्छ वसन्त, कौमुदी प्रतिपालयति त्वाम् । अपि च त्वं किल शान्तः । क धनुर्विद्या क्व च त्वम् । धिक् । धिक् ते पौरुषम् ।
वसन्तः- - ( सक्रोधम् ) मूर्व, पश्य कालदण्डमिव मे बाहुमधुनैव त्वां व्यपादयेयम् ।
कौमुदी– प्राणेश, किमेतत् । विरम शुष्ककलहात् । किमिदमपि ते विनोदनम् ।
सौदामिनी-— - त्वमपि विरम ।
मकरन्दः-- रे वसन्त, किं वा न विदितं मम यदसून्विहायापि कोंमुदीं न त्यक्ष्यसीति ।
वसन्तः-- किं वा कौमुदीं प्रहरेयं तुदेयं व्यापादयेयं वा । यादृशो वा मे द्वेषो भवतु तस्याम् । क्रोधेन किमपि पापाचरणं । न हि धर्मः । विशेषतस्तस्त्वबलायाम् ।
कौमुदी-- (सशोकम् )