पृष्ठम्:वासन्तिकास्वप्नम्.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
वासान्तिकस्वप्ने


यैवेति स्फुटम् । प्राणव्ययेऽप्रतिहतस्नेहस्त्वयि वसन्तः। मम त्वनुरागानुनयप्रार्थितोऽप्यपि मकरन्दः कटाक्षलेशमपि न पातयति । तत्सर्वधा शोच्याऽहं कौमुदि, । तदेवन्नैर्घृण्यस्य कारणमणीयोऽपि नोपलभे ।

(इति पटान्तेन मुखमावृत्य रोदिति ।

कौमुदी- सखि, ते हृदयगतं नावगच्छाम्यनयातिनिष्टुरया वाचा ।

सौदामिनी- अयि, कथं सौदामिन्यामपि विप्रलम्भमारभसे । यदा पार्श्वतोमुखमपर्वतयामेि तदा मुखमुन्नमय्य भ्रुवमुल्लास्य स्मितमारचय्य कृतसङ्केता मामपहसथ । भद्र, यदि कारुण्यस्य वा सौहार्दस्य वा धर्मस्य वा लेशस्त्वयि तर्हि मैवं कृथाः । अथ वा कथमत्र स्थीयते । प्राणवियोग एवञ्च वरीयान् ।

(इति गन्तुमिच्छति ।)

वसन्तः- तिष्ठ तिष्ठ । सत्यमेव मत्प्रणयस्य मज्जीवितस्य मदारत्मनश्च त्वमेवेश्वरी रमणीये सौदमिनि, ॥

सौदामिनी— अतिनिपुणमुपक्रान्तम् ।

कौमुदी-- (सदयम् । ) वल्लभ, मैवमुपहस प्रियसखीम् ।

मकरन्दः- यदि स्वयमेव नागच्छति सौदामिन्यागमयामि तां हठात् ।

वसन्तः-- (मकरन्दं प्रति ।) न कदापि त्वां विश्वासघातुकं वरिष्यतीयं रमणी । न च त्वमपि मयि स्थिते शक्ष्यसि हठात्तामागमयितुम् । (सौदामिनीं प्रति । )