सत्यं वदे'ति पृष्टोऽसौ तुम्बुरुर्वाक्यमब्रवीत् ।
'प्राचीनबर्हिषं भूपं गत्वाऽहं स्तुतिमुक्तवान् ॥ ८
सन्तुष्टस्तेन मे वीणमेवं राजा त्वकारयत्' ।
नारदस्तद्वचः श्रुत्वा कोपाऽविष्टो जगाद ह ॥ ९
नारदः---
'नरस्तुतिः कृता साधो ! लोके सत्सु विनिन्दिता ।
तस्मान्मत्सङ्गयोग्यत्वं न पश्यान्यधमे त्वयि ॥ १०
सर्वेषामपि लोकानां नायकं केशवं विना ।
नरं न स्तोत्रयाम्येव तादृगस्मि हरिप्रियः ॥ ११
मया सह न ते सख्यं उचितं तन्नरस्तुतेः ।
अवाक्छिराः पत त्वं तु खेचरत्वं न ते भवेत्' ॥ १२
इत्युक्तमात्रे मुनिना नारदेन तथैव सः ।
आवाक्छिराः पपातऽशु वेङ्कटाचलमध्यतः ॥ १३
घोणतीर्थे क्वचिद्भागे मनुष्यादिविवर्जिते ।
सिंहशार्दूलसहिते भीरूणां भयदायिनि ॥ १४
पतन्नपि हरिं ध्यायन् प्रणतः प्रीतिकारकम् ।
न व्यथामाप्तवान् घोणमध्यं केवलमाप्तवान् ॥ १५
घोणतीर्थे भगवद्ध्यानपूर्वकतुम्बुरुकुततपःप्रकारः
ततो दृष्ट्वा तु तं घोणं दिशः समवलोक्य च ।
हरिभक्त्या धीरवुद्विः एवं चिन्तां चकार ह ॥ १६
'वेङ्कटाद्रेर्मध्यदेशो नान्यो भवितिमर्हति ।
तस्मादेतद्वेङ्कटेशो मां रक्षतु सदा हरिः ॥ १७
गतिर्वेङ्कटनाथो मे नान्या गति'रिति ब्रुवन् ।
सशङ्खचक्रं लक्ष्मीशं तं ध्यातुमुपचक्रमे ॥ १८