पृष्ठम्:श्रीवेङ्कटाचलमहात्म्यम्-२.pdf/७१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
५३
श्रीब्रह्मोत्तरखण्डें एकपञ्चाशत्तमोऽध्यायः

 नास्ति तुम्बुरुतीर्थस्य समं पापप्रणाशनम् ।
 तन्मीनपौर्णमास्यांञ्चेत् सर्वपुण्योत्तमोत्तमम् ॥ १०५

इति श्रीब्रह्मोत्तरखण्डे श्रीवेङ्कटाचलमाहात्म्ये तीर्थमाहात्म्ये


घोणतीर्थमाहात्म्यवर्णनं नाम


पञ्चशत्तमोऽध्यायः ।


***


अथ एकपञ्चाशत्तमोऽध्यायः


***


तुम्बरोर्नारदशापेन घोणतीर्थप्राप्तिः



ऋषयः---
 सूत ! सर्वार्थविज्ञानविचक्षण ! महामते ! ।
 किञ्चित् ब्रूमो वयं सर्वे तन्नो वक्तुं त्वमर्हसि ॥ १

 तुम्बुरुर्नाम भगवान् कस्माद्वेङ्कटपर्वते ।
 तपस्तप्त्वा क्वचित्तीर्थं लब्धवान् किं फलं वद ॥ २

 कस्माद्वा घोणतीर्थस्य स्वाख्यां प्रार्थितवानभूत् ।
 किमुद्दिश्य तपस्तप्तं अस्माकं वक्तुमर्हसि ॥ ३

सूतः---
 वेङ्कटेशं नमस्कृत्य कथां कल्मषनाशिनीम् ।
 प्रवदामि मुदा युक्ताः शृणुत ब्रह्मवादिनः ! ॥ ४

 कदाचिद्गगने यान्तौ वीणावादनतत्परौ ।
 ध्यायन्तौ हरिमेकाग्रौ मुनी तुम्बुरुनारदौ ॥ ५

 आकाशमार्गे देवर्षिः तुम्बुरुं वीक्ष्य विस्मितः ।
 सर्वरत्नमयीं वीणां दधतं वाक्यमब्रवीत् ॥ ६

 'तुम्बुरो ! तव वीणेयं मद्वीणातो विराजते ।
 केनैवं शोभते वीणा पूर्वमेवं न शोभिता ॥ ७