स्नात्वा तीर्थे तत्र भक्त्या
प्राङ्मुखस्तूपविश्य च ।
प्राणायामशतं कृत्वा
तुम्बुरुर्ध्यानमास्थितः ॥ १९
पीताम्बरं पीनभुजाचतुष्कं
भुजान्तरालस्थितलक्ष्मियुक्तम् ।
प्रसन्नवक्त्रं प्रकटीभवत्कृपा
पाथोधिनेत्रं परमं पुमांसम् ॥ २०
अनन्तपक्षीशचमूपमुख्य-
भक्तैः समेतं परमर्षिसेव्यम् ।
देवादिदेवं दितिजान्तचक्रं
सेवापराणां सुलभं निधानम् ॥ २१
हृदम्बुजे हृद्य...पुर्धरं तं
सञ्चिन्तयन् वेङ्कटशैलनाथम् ।
समुच्चरंस्त्र्यक्षरमर्थयुक्तं
निवातनिष्कम्प इव स्थितोऽभूत् ॥ २२
तुम्बुरुतपस्तुष्टभगवदाविर्भावादिः
एवं तु नियमेनैव संवत्सरमुवास ह ।
ततः फाल्गुनमासे तु पौर्णमास्यां महातिथौ ॥ २३
प्रादुर्बभूव भगवांस्तत्र वेङ्कटनायकः ।
पीताम्बरो दिव्यगन्धस्रग्भूषाभिरलङ्कृतः ॥ २४
राकाचन्द्रोपममुखो राजीवाऽयतलोचनः ।
लक्ष्म्या सर्वजगन्मात्रा रमणीयभुजान्तरः ।
समस्तवाद्यनिनदसङ्घुष्टगिरिकन्दरः ॥ २५