पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४९
द्वादश सर्गः ।


त्रैलोक्यलक्ष्मौ(८)[१]उदयैकभल्यं
समूलमुत्खाग महासुरं लम् ।
अत्रकमेषां पुरतो (९)[२]भवम् सन्
दुःखापहारं (१)[३]युधि यो विधत्ते ॥ ५० ॥
महाहवे नाथ तवास्य सूनोः
(२)[४]शस्त्रैः शितैः कृत्तशिरोधराणाम् ।
महासुगाणां रमणीविलापैः
दिशो दशैता मुखरोभवन्तु ॥ ५१॥

 त्रैलोक्येति । यः कुमारः । कर्ता । एषां संमुखस्थानामित्यर्थः । अस्माकं पुरतः संमुखे युधि संग्रामे भवन् तिष्ठन् सन् युधे अग्रगामौ सेनापतिर्भूत्वेत्यर्थः । त्रैलोक्यस्य विभुवमस्य सम्बन्धिन्याः लक्ष्मणः ह्दयस्व चित्तस्य एकम् अद्वितीयं शलयं शस्यवत् दुःसहं तं महासुरं पराक्रान्तदैत्यं तारकम् । कर्मभूतम्। मूलेन कुटुभ्बादिना सह वर्तमानं यथा तथा उत्खाय विनाश्य दुःखापहारं शनाशं अस्माकमिति शेषः । विधत्ते करोति अविलम्बेनैव विद्यास्यतोीत्यर्थः । अत्र वर्तमानसामीप्ये लट्। भवत्पुत्रं विनस्म्राकं दुःखनाशोपायो नास्तौति भावः ॥ ५१ ॥

 महेति । हे नाथ प्रभो। महान् प्रबलः यः आहवः युद्ध तस्मिन् अस्य संमुखस्यस्येत्यर्थः । तव सूनोः तनयख शितैः तौ शस्त्रैः क्वत्ताः छिन्नाः शिरोधरा: ग्रीवाः येषां तथोां महासुराणां पराक्रान्तदैत्यानां रमणीनां कामिनीनां विलापैः पतिमरणजनितप्रलापैः एताः संमुखस्विता इत्यर्थः।


  1. द्वितयैक ।
  2. भविखुः ।
  3. सुधिया बिधाता ।
  4. शरैः ।