पृष्ठम्:Kumarasambhavam - Mallinatha - 1888.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
कुमारसम्भव


आकुलालक(६) [१]मरस्त रागवान्
प्रेच्य भिन्नतिलकं प्रियामुखम् ॥ ८८॥
तेन (७)[२]भविषमोत्तरच्छदं
मध्यपिण्डितविसूत्रमेखलम्।
निर्मलेऽपि शयनं निशात्यये
नजितं चरणरागलाञ्छितम् ॥ ८९ ॥
स (८)[३]प्रियामुखरसं दिवानिशं
हर्षवृद्धिजननं सिषेविषुः।
दर्शनप्रणयिनामदृश्यता-
माजगाम (९)[४]विजयानिवेदितः ॥ ६० ॥

रक्तनेत्रं गात्रैः दन्तपदैः दन्तक्षतैः ताडिताधरम् आकुलालच भिनतिलकं प्रियामुखं प्रेक्ष्य अरंस्त अन्वरज्यत । तादृन्न त्र । दर्शनमेव तस्योद्दीपकमित्यर्थः ॥ ८८ ॥

 तेनेति । तेन हरेण भङ्गिभिर्भर्विषमो निशेषतः उत्तरधदः प्रच्छदपटो यस्मिन् तत् । मध्ये पिडिता पुज्जीकृत विमुवमेखला चैित्ररसना यस्मिन् तत्तथोक्तं चरणयोः रागेष लाक्षारागेण लाञ्छितं चिह्नितं शयनं गिlत्यये प्रश्न निर्मलपि । सुर्योदये सत्यपीत्यर्थः । न उगितं न त्यक्तम्। अत्र देव्याः सकलसुरतोपचारसम्पञ्चत्वं पुरुषायितं सुच्यते॥८९॥

 स इति । स हरो हर्षवृद्धिजननं सुखातिशयारी प्रियामुखरसं मदिरामृतं दिवा च निशि च दिवानिशम् ।


  1. अपास्तचित्तकम् ।
  2. भित्र ।
  3. प्रियासुखरसम् ।
  4. विजयानिवेदनात् ।